6. இதன் பிறகு ब्रह्मौदनाக்கினி இருந்த இடத்தில் சாம்பலைத் தள்ளி, அதில் அரணிகளைக் கடைகிறது. அப்போது ஒரு குதிரை கிட்ட இருக்கவேண்டியது. அக்கினி உண்டான பிறகு, யஜமாநன் அபிமந்திரணம் செய்து, அதின்மேலே மூச்சு விடவேண்டியது. அதை அத்வர்யு अञ्जलिயால் (சேர்ந்த கைகளால்) எடுத்து, பத்த விட்டு, கார்ஹபத்தியத்தின் இடத்தில் கிழக்கு முகமாய் உட்கார்ந்து கொண்டு சேர்க்கிறான். இதை சூரியன் உதிப்பதற்கு முன்னாலே செய்யவேண்டியது. பிறகு ஆஹவநீயத்தின் இடத்துக்கு அக்கினியைக் கொண்டு போவதற்காகத் தணல்களை எடுத்துவைத்து, ஆக்கினீத்திரன் வேறு தணல்களை எடுத்துக்கொண்டு, தக்ஷிணாக்கினியின் இடத்துக்கும் போய், அவைகளை அதில் உட்கார்ந்து கொண்டு சேர்க்கிறான். आप.श्रौत.सूत्रम्,प्रश्नः-5, कण्डिका-11,12.


आप.श्रौत.सूत्रम्,प्रश्नः-5, कण्डिका-11,12

कण्डिका-11
1 - अत्र चतुर्होतॄन्यजमानं वाचयति
2 - अजन्नग्निः पूर्वः पूर्वेभ्यः पवमानः शुचिः पावक ईड्य इति जातमभिमन्त्रयते
3 - जाते यजमानो वरं ददाति
4 - गौर् वै वरोऽतिवरोऽन्यो धेनुर्वरोऽतिवरोऽन्योऽनड्वान्वरोऽतिवरोऽन्यः पष्ठौही वरोऽतिवरोऽन्यः
5 - जातं यजमानोऽभिप्राणिति प्रजापतेस्त्वा प्राणेनाभिप्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शतं शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्यायेति
6 - अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् / दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभिसंरभन्तामिति जातमञ्जलिनाभिगृह्य सम्राडसि विराडसि सारस्वतौ त्वोत्सौ समिन्धातामन्नादं त्वान्नपत्यायेत्युपसमिध्याथैनं
प्राञ्चमुद्धृत्यासीनः सर्वेषां मन्त्राणामन्तेन रथंतरे गीयमाने यज्ञायज्ञीये च यथर्ष्याधानेन प्रथमया व्याहृत्या द्वाभ्यां वा प्रथमाभ्यां च सर्पराज्ञीभ्यां प्रथमेन च घर्मशिरसा
7 - भृगूणां त्वा देवानां व्रतपते व्रतेनादधामीति भार्गवस्यादध्यात् / अङ्गिरसां त्वा देवानां व्रतपते व्रतेनादधामीति यो ब्राह्मण आङ्गिरसः स्यात् / आदित्यानां त्वा देवानां व्रतपते व्रतेनादधामीत्यन्यासां ब्राह्मणीनां प्रजानाम् / वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामीति राज्ञः / इन्द्रस्य त्वेन्द्रियेण व्रतपते व्रतेनादधामीति राजन्यस्य / मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामीति वैश्यस्य / ऋभूणां त्वा देवानां व्रतपते व्रतेनादधामीति रथकारस्येति यथर्ष्याधानानि

कण्डिका-12
1 - भूर्भुवः सुवरिति व्याहृत्यः / भूमिर्भुम्नेति सर्पराज्ञियः / घर्मः शिरस्तदयमग्निः संप्रियः पशुभिर्भुवत् / छर्दिस्तोकाय तनयाय यच्छ // वातः प्राणस्तदयमग्निः संप्रियः पशुभिर्भुवत् / स्वदितं तोकाय तनयाय पितुं पच // अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः संप्रियः पशुभिर्भुवत् / यत्ते शुक्र शौक्रं वर्चः शुक्रा तनूः शुक्रं ज्योतिरजस्रं तेन मे दीदिहि तेन त्वादधेऽग्निनाग्ने ब्रह्मणेति घर्मशिरांसि
2 - यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः / ताभिः संभूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्ने // प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै / दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे // अग्ने गृहपतेऽहे बुध्न्या परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय / पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके / यो नो अग्ने निष्ट्यो योऽनिष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामीति संभारेषु निदधाति
3 - सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीःश्रेयसीर्दधत् / अग्ने सपत्नाँ अपबाधमानो रायस्पोषमिषमूर्जमस्मासु धेहीत्याधीयमानमभिमन्त्रयते यजमानो घ्रमशिरांसि चैनमध्वर्युर्वाचयति

Go to Main Page